Saturday, March 15, 2014

01 Balakanda 08 Sarga बालकाण्डः ०८ सर्गः

तस्य त्वेवम्प्रभावस्य धर्मज्ञस्य महात्मनः । 
सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ।। 1.8.1 ।। 


चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । 
सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ।। 1.8.2 ।। 


स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । 
मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ।। 1.8.3 ।। 


ततो ऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् । 
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ।। 1.8.4 ।। 


ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । 
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।। 1.8.5 ।। 


सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । 
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।। 1.8.6 ।। 


तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । 
इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ।। 1.8.7 ।। 


मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् । 
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ।। 1.8.8 ।। 


तदहं यष्टुमिच्छामि शास्त्रदृष्ऺटेन कर्मणा । 
कऺथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ।। 1.8.9 ।। 


ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । 
वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम् । 
ऊचुश्च परमप्रीतास्सर्वे दशरथं वचः ।। 1.8.10 ।। 


सम्भारास्सम्भ्रियन्तां ते तुरङ्गश्च विमुच्यताम् ।। 1.8.11 ।।मुखास्सर्वे पार्थिवस्य मुखाच्च्युतम् । 


सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव । 
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।। 1.8.12 ।। 

ततः प्रीतो ऽभवद्राजा श्रुत्वैतद्द्विजभाषितम् । 
अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ।। 1.8.13 ।। 


सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह । 
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ।। 1.8.14 ।। 


सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । 
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ।। 1.8.15 ।। 


शक्यः प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता । 
नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ।। 1.8.16 ।। 

छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः । 
निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ।। 1.8.17 ।। 


तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते । 
तथा विधानं क्रियतां समर्थाः करणेष्विह ।। 1.8.18 ।। 


तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन् । 
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते ।। 1.8.19 ।। 


तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम् । 
अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ।। 1.8.20 ।। 


विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् । 
ऋत्विग्भिरुपदिष्टो ऽयं यथावत् क्रतुराप्यताम् ।। 1.8.21 ।। 


इत्युक्त्वा नृपशार्दूलस्सचिवान् समुपस्थितान् । 
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ।। 1.8.22 ।। 


ततस्स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः । 
उवाच दीक्षां विशत यक्ष्ये ऽहं सुतकारणात् ।। 1.8.23 ।। 


तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । 
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ।। 1.8.24 ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे अष्टमस्सर्गः ।। 8 ।। 

No comments:

Post a Comment