Wednesday, January 29, 2014

सन्धिः

अष्टाध्याय्यां संहिताधिकारे सन्धिसूत्राणि सन्ति, परन्तु तत्र सन्धिशब्दः न दृश्यते कदाचिदपि। परः सन्निकर्षः संहिता (अष्टा 1.4.109) इति सूत्रेण वर्णानामतिशयितः सन्निधिः संहिता इति नाम्ना व्यवहृता पाणिनिना। सति संहितायां सन्धिः, तदभावे सन्ध्यभावः। सा च संहिता विवक्षिताधीना वाक्ये, उक्तञ्च –
              संहितैकपदेनित्या नित्या धातूपसर्गयोः।
              नित्या समासे च वाक्ये सा विवक्षामपेक्षते॥ इति॥
"संहितायाम्", इति आधिकारः अष्टाध्याय्यां वारत्रयं दृश्यते। प्रथमः संहितायाम् (अष्टा 6.1.72) इति षष्ठाध्यायस्य प्रथमे पादे, एष अधिकारः अनुदात्तं पदमेकवर्जम् (अष्टा 6.1.158) इति यावदधिक्रियते। अस्मिन्नधिकारे अच्सन्धिः, एकादेशसन्धिः, तुगागमः, सुडागमः, प्रकृतिभावश्च वर्तन्ते।
    द्वितीयः अधिकारः संहितायाम् (अष्टा 6.3.114) इति षष्ठाध्याये एव तृतीये पादे वर्तते। आपादपरिसमाप्तेरधिकारोयम्। अस्मिन्नधिकारे दीर्घविधिर्विहितः।
     तृतीयः संहिताधिकारः तयोर्य्वावचिसंहितायाम् (अष्टा 8.2.108) इति अष्टमाध्याये द्वितीये पादे वर्तते। अयमधिकारः अष्टमाध्यायसमाप्तिपर्यन्तं वर्तते। अस्मिन्नधिकारे रुत्वविधिः, धुडाद्यागमः, विसर्जनीयादेशाः, षत्वविधः, णत्वविधिः, श्चुत्वादिहल्सन्धयश्च वर्तन्ते।
     एवञ्च त्रिषुसंहिताधिकारेषु आगमाः, आदेशाः, लोपः, प्रकृतिभावश्च विधयः विहिताः। तेषामेव पदसन्धिः, अपदसन्धिः इत्यपि विभज्य वक्तुं शक्यते।
1.     आगमाः – मित्रवदागमः। संहितायां सत्यां मित्रवदागत्य द्वयोर्वर्णयोर्मध्ये तिष्ठति। यथा – डः सि धुट् (अष्टा 8.3.29) इति। अनेन धुडागमः विधीयते। अत्र स इति वर्णस्यैव निमित्तत्वात् सन्धिनाम्ना व्यवहारः।
2.  आदेशाः – शत्रुवदादेशः। सतिसंहितायां द्वयोर्वर्णयोर्मध्ये शत्रुवदागत्य यः तिष्ठति सः आदेशः इति। अयमादेशः द्विविधः एकादेशः, तद्भिन्नश्चेति।
एकः पूर्वपरयोः(अष्टा 6.1.84) इति इति सूत्रेण एकादेशाधिकारः विधीयते। पूर्वपरयोः स्थाने एक एव आदेशः भवति चेत् स एकादेशः। अस्मिन्नधिकारे अच्सन्धिः विहितः। आद्गुणः (अष्टा 6.1.87), वृद्धिरेचि(अष्टा 6.1.88), एत्येधत्यूठ्सु (अष्टा 6.1.89) इत्यादीनि एकादेशस्योदाहरणानि।
सामान्यादेशस्य इको यणचि (अष्टा 6.1.77), एचोयवायावः (अष्टा 6.1.78), अवङ् स्फोटायनस्य (अष्टा 6.1.123) इत्यादीन्युदाहरणानि। अजादेशः, हलादेशः इति अयमादेशः द्विविधः। अच्स्थाने यः आदेशः भवति सः अजादेशः। हलः स्थाने यः आदेशः भवति सः हलादेशः। अजादेशस्य इको यणचि इत्यादीन्युदाहरणानि। हलादेशस्य समः सुटि (अष्टा 8.3.5) इत्यादीन्युदाहरणानि।
3.  लोपःअदर्शनं लोपः (अष्टा 1.1.60) इति सूत्रेण प्रसक्तस्य अदर्शनमेव लोपः इति लोपसंज्ञा विहिता। संहितायां यः लोपः विधीयते सः लोपसन्धिः। एतत्तदोः सुलोपोकोरनञ् समासे हलि (अष्टा 6.1.132), स्यश्छन्दसि बहुलम् (अष्टा 6.1.133), हलो यमां यमि लोपः (अष्टा 8.4.64) इत्यादीनि उदाहरणानि।
4.  प्रकृतिभावः – संहितायामपि द्वयोः अचोः सन्ध्यभाव एव प्रकृतिभावः इति कथ्यते। प्रकृतिभावः केवलमज्विषयकः। प्रकृतिभावः प्रथमसंहिताधिकारे प्रकृत्यान्तः पादम् (अष्टा 6.1.115) इत्यारभ्य ऋत्यकः (अष्टा 6.1.128) पर्यन्तं वर्तते।
    पदसन्धिः, अपदसन्धिः इत्यपि सन्धिर्द्विधा। पदात्, पदस्य इत्यधिकारान्तरे विधीयमानसन्धिः पदसन्धिः। तद्भिन्नः अपदसन्धिः। अपदस्य विधीयमानसन्धिः, एवं अपदे इत्युक्त्वा च विधायमानः सन्धिः अपदसन्धिः। त्रिषु संहिताधिकारेषु विधीयमानानामेव एवं व्यवहारः।
    खरवसानयोर्विसर्जनीयः (अष्टा 8.3.15), मोनुस्वारः (अष्टा 8.3.23), ओतो गार्ग्यस्य (अष्टा 8.3.20) इत्यादीनि पदसन्धेरुदाहरणानि। स्तोः श्चुना श्चुः (अष्टा 8.4.40), तोः षि (अष्टा 8.4.43) इत्यादीनि पदापदसामान्यानि। श्चाऽपदादान्तस्य झलि (अष्टा 8.3.24) , सोपदादौ (अष्टा 8.3.38) इत्यादीनि अपदसन्धेरुदाहरणानि।


No comments:

Post a Comment