Sunday, July 28, 2013

01 Balakanda 002 Sarga बालकाण्डः ०२ सर्गः

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
पूजयामास धर्मात्मा सहशिष्यो महामुनिः ।। 1.2.1 ।। 



यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।
आपृष्ट्वैवाभ्यनुज्ञातस्स जगाम विहायसम् ।। 1.2.2 ।।




स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ।। 1.2.3 ।।



स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।। 1.2.4 ।।


अकर्दममिदं तीर्थं भरद्वाज निशामय ।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।। 1.2.5 ।।


न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।। 1.2.6 ।।


एवमुक्ते भरद्वाजो वाल्मीकेन महात्मना ।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ।। 1.2.7 ।।


स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ।। 1.2.8 ।।


तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ।। 1.2.9 ।।


तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।
जघान वैरनिलयो निषादस्तस्य पश्यतः ।। 1.2.10 ।।


तं शोणितपरीताङ्गं वेष्टमानं महीतले ।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ।। 1.2.11 ।।


वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ।। 1.2.12 ।।


तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।। 1.2.13 ।।


ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ।। 1.2.14 ।।


मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। 1.2.15 ।।


तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ।। 1.2.16 ।।


चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।
शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ।। 1.2.17 ।।


पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ।। 1.2.18 ।।


शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ।। 1.2.19 ।।


सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ।। 1.2.20 ।।


भरद्वाजस्ततश्शिष्यो विनीतश्श्रुतवान् मुनेः ।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ।। 1.2.21 ।।


स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ।। 1.2.22 ।।


आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः ।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।। 1.2.23 ।।


वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ।। 1.2.24 ।।


पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।
प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ।। 1.2.25 ।।


अथोपविश्य भगवानासने परमार्चिते ।
वाल्मीकये महर्षये सन्दिदेशासनं ततः ।
ब्रह्मणा समनुज्ञातस्सोऽप्युपाविशदासने ।। 1.2.26 ।।


उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।। 1.2.27 ।।


पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।। 1.2.28 ।।


शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ।
जगावन्तर्गतमना भूत्वा शोकपरायणः ।। 1.2.29 ।।


तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ।
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।। 1.2.30 ।।


मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।। 1.2.31 ।।


धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।। 1.2.32 ।।


रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।। 1.2.33 ।।


वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।। 1.2.34 ।।


न ते वागनृता काव्ये काचिदत्र भविष्यति ।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।। 1.2.35 ।।


यावत्स्थास्यन्ति गिरयस्सरितश्च महीतले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ।। 1.2.36 ।।


यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ।
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।। 1.2.37 ।।


इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
ततस्सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ।। 1.2.38 ।।


तस्य शिष्यास्ततः सर्वे जगुश्श्लोकमिमं पुनः ।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ।। 1.2.39 ।।


समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
सो ऽनुव्याहरणाद्भूयश्शोशकश्श्लोकत्वमागतः ।। 1.2.40 ।।


तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ।। 1.2.41 ।।


उदारवृत्तार्थपदैर्मनोरमैस्ततस्स रामस्य चकार कीर्तिमान् ।
समाक्षरैश्श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ।। 1.2.42 ।।


तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ।। 1.2.43 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे द्वितीयः सर्गः ।। 2 ।।

Monday, July 8, 2013

क्विप् प्रत्ययः the kvip suffix

क्विप् प्रत्ययः

Introduction:
This  प्रत्ययः (suffix) converts a verb to a noun.
This प्रत्ययः (suffix) applies to a set of verbs and results in a word which denotes "one who does" the action denoted by the verb root.
धातुः (root verb) + क्विप् = person who does the action denoted by the verb.

Example:
1.1.1 वाग्वित् -> here, वित् = विद ज्ञाने (to know) + क्विप् in other words, वित् is the "one who does" knowing i.e. one who knows.

For more details, please refer: http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.2.61.htm

Sunday, July 7, 2013

सन्धिः Sandhi

सन्धिः

Whenever a language is spoken, word endings fuse with beginnings of subsequent words to either produce:
1. लोपः - vanishing of a vowel or a consonant sound.
2. आदेशः - substitution of a vowel or consonant sound with another.
3. प्रकृतिभावः - absence of vanishing or substitution.

However, to say the above is not completely right! Mind produces thoughts. When thoughts flow in the form of speech, it flows in the natural flow of the language. The person listening / reading the spoken / written word breaks it up into constituent words and then understands them. The process in which the thought fuses the constituent words into a "flow" is called as सन्धिः and the process of breaking up the Sandhi into its constituent words is called as सन्धिच्छेदः (Sandhiccheda: breaking up a Sandhi).

Sandhiccheda is the most essential tool in learning Sanskrit. In the constraint imposed on us in learning Sanskrit through a written text, it is the most necessary skill to have. Breaking up a Sandhi has to become second nature to anyone who wishes to learn Sanskrit effectively.

Classification

Sandhis are classified based on the type of fusion.

अच् सन्धिः - Sandhi of vowels.

   When the vowel at the end of a word fuses with the vowel at the beginning of the next word, it is called as स्वरासन्धिः.
   Vowel combinations and their  results are summarized in the following table.




हल् सन्धिः - Sandhi of consonants.

1. जश्त्व - The first consonant of the वर्गियव्यञ्जनानि (grouped consonants) transforms to the third in the group when it encounters a vowel or a soft consonant.
2. श्चुत्व - When स or त group comes  in  contact with श or च group, it results in श  or च group.
3. ष्टुत्व - When स or त group comes  in  contact  with ष or ट group, it results in ष or ट group.



Monday, July 1, 2013

द्वन्द्व समासः - the dvandva compound

द्वन्द्व समासः

Introduction:

For a general introduction to समासाः (compounds), please refer here: http://learn-sanskrit-through-ramayanam.blogspot.com/2013/07/compound-word.html
चकार  बहुलो द्वन्द्वः - In this samAsa, there is usage of many च s.
The description of dvandva samAsa as given below has been extracted from Shabdamanjarii published by R. S. Vadyar and Sons, Kalpathi, Palaghat - 678 003, Kerala, Edition 2004.

यस्मिन् समासे प्राधान्यम् उभयोः स्यात्पदार्थयोः |
स हि द्वन्द्वो द्विधा ज्ञेयः बुधैरीति विनिश्चितः ||
इतरेतरयोगाख्यः समाहाराह्वयस्तथा |
द्वाभ्यां पादाभ्यां बहुभिरुभौ चेति चतुर्विधः ||

द्विपदेतरेतरयोगद्वन्द्वः

ययोर्बलेन समेतौ निहतौ कंसरावणौ।
सूर्याचन्द्रमसोर्वंश्यौ रामकृष्णावहं भजे॥
कंसश्च रावणश्च = कंसरावणौ । सूर्यश्च चन्द्रमाश्च = सूर्याचन्द्रमसौ । रामश्च कृष्णश्च = रामकृष्णौ ।

बहुपदेतरेतरयोगद्वन्द्वः

वापीकूपतटाकानां महतां स्थापनादपि ।
धर्मार्थकाममोक्षाः सिद्ध्यन्त्यत्र न संशयः ॥
वापी च कूपश्च तटाकश्च = वापीकूपतटाकाः ।
धर्मश्च कामश्च मोक्षश्च = धर्मार्थकाममोक्षाः ।

द्विपदसमाहारद्वन्द्वः

शीतोष्णं सुखदुःखं वा सहन् यो वर्तते सदा ।
नियम्य वाक्त्वचं सम्यक् स हि य्Oगीति कथ्यते ॥
शीतं च उष्णं च तयोः समाहारः = शीतोष्णम् ।
सुखं च दुःखं च तयोः समाहारः = सुखदुःखम् ।
वाक् च त्वक् च तयोः समाहारः = वाक्त्वचम् ।

बहुपदसमाहारद्वन्द्वः

ढक्कामृदङ्गपटहं यस्य दध्वान मन्दिरे ।
अश्वहस्तिरथं चास्तु भावुकं तस्य भूभृतः ॥
ढक्का च मृदङ्गश्च पटहश्च तेषां समाहारः = ढक्कामृदङ्गपटहं ।
अश्वश्च हस्ती च रथश्च तेषां समाहारः = अश्वहस्तिरथं ।

Examples:

तपश्च स्वाध्ययश्च तपःस्वाध्यायौ (1.1.1)


समासः - compound word

समासः

Samaasa is a compound word. Sanskrit has this unique ability to combine words in a way such that they carry the meaning of sentences. Long compounded words are rare in Ramayanam, but are quite replete in prose-works, with words at times running the length of a few pages!

In scholarly Sanskrit, economy of syllables is always sought after. There is a joke (not completely related, but relevant here) that if a person composing a Sutra is able to cut down a syllable without compromising the meaning, he is as happy as though a boy were born to him. It is the endeavour of writers to convey what they want with the minimum use of syllables as possible. Any work written that way is deemed quite scholarly.

The "sentence" explaining to the compound is called as the "vigraha vaakya" (break-down of a compound word in the form of a sentence).

The following are the types of Samaasas encountered in Sanskrit:
  1. तत्पुरुष
  2. बहुव्रीहि
  3. कर्मधारय
  4. द्वन्द्व
  5. द्विगु
  6. अव्ययीभाव
Samaasa also at times gives rise to ambiguity about the actual intent of the author, these issues will be discussed later.