Sunday, June 30, 2013

क्तः प्रत्ययः the ktaH suffix

Introduction

क्तः प्रत्ययः - summary will be added later

Details

http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.3.114.htm

Examples

1.1.1 निरतम् = नि + रमु क्रीडायाम्  (भ्वादिः) + क्तः

01 Balakanda 001 Sarga बालकाण्डः ०१ सर्गः

This is a work in progress which will be updated often. Hence, keep visiting!

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। 1.1.1 ।। 


पदपाठः


व्याकरणम्

तपःस्वाध्यायनिरतं = तपश्च स्वाध्ययश्च तपःस्वाध्यायौ (द्वन्द्व समासः) तयोः निरतम् (षष्ठी तत्पुरुष समासः)
तपः =  सकारान्तनपुंसकलिङ्गः तपस् शब्दः = तप सन्तापे (भ्वादिः) + घञ्
स्वाध्यायः = स्वस्य अध्यायः
अध्यायः = अधि  इङ् अध्ययने (नित्यमधिपूर्वः) + घञ्

निरतम् = नि + रमु क्रीडायाम्  (भ्वादिः) + क्तः
तपस्वी = नकारान्तपुंलिङ्गः तपस्विन् शब्दः = तप संतापे + तपःसहस्राभ्यां विनीनी (5.2.102)
वाग्विदां = वाचं वेत्तीति वाग्वित् तेषाम् (वित्=विद ज्ञाने + क्विप् 3.2.61)
वरम् = वॄञ् वरणे + अप् (3.3.57)
नारदं =

परिपप्रच्छ =
वाल्मीकिर्मुनिपुङ्गवम् = वाल्मीकिः + मुनिपुङ्गवम् (विसर्गसन्धिः)
                                   => मुनीनां पुङ्गवः तम्

को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। 1.1.2 ।।

पदपाठः

कः नु अस्मिन् साम्प्रतम् लोके गुणवान् कः च वीर्यवान् धर्मज्ञः च कृतज्ञः च सत्यवाक्यः दृढव्रतः

व्याकरणम्

कः
नु => अव्ययः
अस्मिन् => मकारान्तः‍ पुल्लिङ्गः इदम् शब्दः सप्तमी‍ एकवचनम्।
साम्प्रतम् => सं च प्रति च द्वयोः समाहारः। ततः‍ प्रज्ञाद्यण्।
लोके => अकारान्तः‍ पुल्लिङ्गः लोक शब्दः सप्तमी‍ एकवचनम्।
    => ऋ / क दीप्तौ (अवलंबः‍ कविकल्पद्रुमः‍)
गुणवान् => गुणो विद्यते अस्य => गुण +‍ मतुप् मस्य वत्वम्।
कः

वीर्यवान् => वीर्यो विद्यते अस्य =>वीर्य +‍ मतुप् मस्य वत्वम्।
धर्मज्ञः => धर्मं जानातीति । ज्ञा +‍ कः।

कृतज्ञः => कृतं‍ उपकृतं‍ जानाति स्वीकरोति यः । क्षा +‍ कः ।

सत्यवाक्यः => सत्यं‍ वाक्यं‍ यस्य सः (बहुव्रीहिः)
दृढव्रतः => दृढं‍ व्रतं‍ यस्य सः (बहुव्रीहिः)
       => दृह् वृद्धौ +‍ क्तः‍ । निपातनात् साधुः।
       => व्रियते इति => वृञ् वरणे + बाहुलकात् अतच् । सच कित्।

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ।। 1.1.3 ।।

पदपाठः

चारित्रेण च कः‍ युक्तः सर्वभूतेषु कः‍ हितः विद्वान् कः‍ कः‍ समर्थः‍ च कः‍ च एक प्रियदर्शनः ॥

व्याकरणम्

चारित्रेण = चर + अर्तिलूधूसूखनसहचर इत्रः (पा॥ ३।२।१८४) ॥
च = अव्ययः
कः = पुल्लिङ्गः किं शब्दः‍, प्रथमा विभक्तिः, एकवचनम्।
युक्तः = युजिर् योगे + क्तः॥
सर्वभूतेषु = सर्वे च ते भूताश्च सर्वभूताः। तेषु ॥
कः =
हितः = धा / हि + क्तः
विद्वान् = वेत्तीति = विद् + शतृ । "विदेः शतुर्वसुः" (पा ७।१।३६) = विद् + वस् ॥
कः
कः
समर्थः = समर्थयते इति ॥ सम् + अर्थ उपयाच्ञायाम् + पचाद्यच् ॥

कः

एकप्रियदर्शनः = एकश्चासौ प्रियदर्शनश्च॥ प्रियश्चासौ दर्शनश्च ॥ एकः = इ + कन् ॥ प्रियः = प्रीणातीति ॥ प्री+ "इगुपधज्ञाप्रीकिरः कः।" (पा। ३।१।१३५)॥ दर्शनः = दृशिर् प्रेक्षणे + ल्युट्

आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।। 1.1.4 ।।
 

पदपाठः

आत्मवान् कः‍ जितक्रोधः द्युतिमान् कः‍ अनसूयकः कस्य बिभ्यति देवाः च जातरोषस्य संयुगे ॥

व्याकरणम्

आत्मवान् = आत्मा अस्यास्तीति अत सातत्यगमने + मनिण् (उणादि ४।१५२)
कः
जितक्रोधः = जितः क्रोधः येन सः जीञ् जये + क्तः, क्रुध् क्रोधे + क्तः
मतिमान् = मतिरस्यास्तीति
कः
अनसूयकः = असूयां करोतीति असूयकः, न असूयकः अनसूयकः
           असूया= असू ञ असूयायां + यक् + अ
कस्य
बिभ्यति = भी भये। लट्, प्रथमपुरुष, एकवचनम्
देवाः = दीव्यति आनन्देन क्रीडतीति = दिव + अच्

जातरोषस्य = जातः रोषः यस्य सः, तस्य
               जनि प्रादुर्भावे कर्तरि क्तः
               रुष् + घञ्
संयुगे = सङ्गता रथयुगाः यस्मिन्
           युजिर् योगे + घञ् (उक्थादिषु युगशब्दस्य पाठात् निपातनादगुणत्वम् "विशेषोऽसौ निपातनमिष्यते कालविशेषे रथाद्युपकरणे च" इति वृत्तिः


एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ।। 1.1.5 ।।

पदपाठः


व्याकरणम्

एतत् 
इच्छामि
अहं => अस् + मदिक् (युष्यसिभ्यां मदिक् उणादि १।१३६ / १३८)
श्रोतुं => श्रूञ् श्रवणे + तुमुन्
परं => पॄ भावे अप् (ऋदोरप् पा। ३।३।५७)
कौतूहलं => कुतूं चर्ममयतैलादिपात्रवत् अन्तर्हलति सोत्सुकं कर्Oति हल् + अच्
हि = अव्ययः।
मे = अस्मच्छब्दः‍ चतुर्थी एकवचनम्।
महर्षे = महान् चासौ ऋषिश्च (विशेषणपूर्वपदकर्मधारय समासः)
त्वं = युष्मच्छब्दः द्वितीया बहुवचनम्।
समर्थः =
असि = अस् भुवि लट् मध्यमपुरुषः एकवचनम्।
ज्ञातुम् = ज्ञा +‍ तुमुन्
एवं = अव्ययः।
विधं = अव्ययः।
नरम् =


श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।। 1.1.6 ।। 

श्रुत्वा

एतत्
त्रिलोकज्ञः
वाल्मीकेः
नारदः
वचः
श्रूयताम्
इति

आमन्त्र्य
प्रहृष्टः
वाक्यम्
अब्रवीत्






बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ।। 1.1.7 ।।
बहवः
दुर्लभाः

एव
ये
त्वया
कीर्तिताः
गुणाः
मुने
वक्ष्यामि
अहं
बुद्ध्वा
तैः
युक्तः
श्रूयतां
नरः

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।। 1.1.8 ।।

इक्ष्वाकुवंशप्रभवः
रामः
नाम
जनैः
श्रुतः
नियतात्मा
महावीर्यः
द्युतिमान्
धृतिमान्
वशी


बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। 1.1.9 ।।
बुद्धिमान्
नीतिमान्
वाग्मी
श्रीमान्
शत्रुनिबर्हणः
विपुलांसः
महाबाहुः
कम्बुग्रीवो
महाहनुः

महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ।। 1.1.10 ।।

महोरस्कः
महेष्वासः
गूढजत्रुः
अरिन्दमः
आजानुबाहुः
सुशिराः
सुललाटः
सुविक्रमः


समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11 ।। 

समः
समविभक्ताङ्गः
स्निग्धवर्णः
प्रतापवान्
पीनवक्षाः
विशालाक्षः
लक्ष्मीवाञ्
शुभलक्षणः




धर्म्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। 1.1.12 ।।

धर्मज्ञः
सत्यसन्धश्च
प्रजानां

हिते
रतः
यशस्वी
ज्ञानसम्पन्नः
शुचिः
वश्यः
समाधिमान्


प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। 1.1.13 ।।
प्रजापतिसमः
श्रीमान्
धाता
रिपुनिषूदनः
रक्षिता
जीवलोकस्य
धर्मस्य
परिरक्षिता



रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।। 1.1.14 ।।

रक्षिता‍
स्वस्य
धर्मस्य
स्वजनस्य

रक्षिता
वेदवेदाङ्गतत्त्वज्ञः
धनुर्वेदे

निष्ठितः

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। 1.1.15 ।।
सर्वशास्त्रार्थतत्त्वज्ञः
स्मृतिमान्
प्रतिभानवान्
सर्वलोकप्रियः
साधुः
अदीनात्मा
विचक्षणः

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।। 1.1.16 ।।
सर्वदा
अभिगतः
सद्भिः
समुद्र
इव
सिन्धुभिः
आर्यः
सर्वसमः

एव
सदा
एकप्रियदर्शनः

स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ।
समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव ।। 1.1.17 ।।


सर्वगुणोपेतः
कौसल्यानन्दवर्धनः
समुद्र
इव
गाम्भीर्ये
धैर्येण
हिमवान्
इव

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। 1.1.18 ।।

विष्णुना
सदृशः
वीर्ये
सोमवत्
प्रियदर्शनः
कालाग्निसदृशः
क्रोधे
क्षमया
पृथिवीसमः


धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।। 1.1.19 ।।

धनदेन
समस्त्यागे
सत्ये
धर्म
इवापरः
तम्
एवङ्गुणसम्पन्नं
रामं
सत्यपराक्रमम्


ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। 1.1.20 ।।


ज्येष्ठं
श्रेष्ठगुणैर्युक्तं
प्रियं
दशरथः
सुतम्


यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।। 1.1.21 ।।
यौवराज्येन
संयोक्तुम्
ऐच्छत्
प्रीत्या
महीपतिः
तस्य
अभिषेकसम्भारान्
दृष्ट्वा
भार्याथ
कैकयी
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ।। 1.1.22 ।।

पूर्वं
दत्तवरा
देवी
वरमेनमयाचत
विवासनं

रामस्य
भरतस्य
अभिषेचनम्

स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। 1.1.23 ।।
सः
सत्यवचनात्
राजा
धर्मपाशेन
संयतः
विवासयामास
सुतं
रामं
दशरथः
प्रियम्

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। 1.1.24 ।।
सः
जगाम
वनं
वीरः
प्रतिज्ञाम्
अनुपालयन्
पितुः
वचननिर्देशात्
कैकेय्याः
प्रियकारणात्

तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः ।। 1.1.25 ।।
तं
व्रजन्तं
प्रियः
भ्राता
लक्ष्मणः
अनुजगाम

स्नेहात्
विनयसम्पन्नः
सुमित्रानन्दवर्धनः

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। 1.1.26 ।।

जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। 1.1.27 ।।

जनकस्य
कुले
जाता
देवमाया
इव
निर्मिता
सर्वलक्षणसम्पन्ना
नारीणामुत्तमा
वधूः

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। 1.1.28 ।।
सीता
अपि
अनुगता
रामं
शशिनं
रोहिणी
यथा

पौरैः
अनुगतः
दूरम्
पित्रा
दशरथेन


शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। 1.1.29 ।।
शृङ्गवेरपुरे
सूतं
गङ्गाकूले
व्यसर्जयत्

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।। 1.1.30 ।।

गुहेन
सहितः
रामः
लक्ष्मणेन

सीतया
ते
वनेन
वनं
गत्वा
नदीः
तीर्त्वा
बहूदकाः



चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।। 1.1.31 ।।
चित्रकूटमनुप्राप्य
भरद्वाजस्य
शासनात्

रम्यम्
आवसथम्
कृत्व
रममाणाः
वने
त्रयः

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।। 1.1.32 ।।

राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।। 1.1.33 ।।

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ।। 1.1.34 ।।

गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ।। 1.1.35 ।।

त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।
रामो ऽपि परमोदारः सुमुखः सुमहायशाः ।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ।। 1.1.36 ।।

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्त्तयामास ततो भरतं भरताग्रजः ।। 1.1.37 ।।

स काममनवाप्यैव रामपादावुपस्पृशन् ।। 1.1.38 ।।।

नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।। 1.1.39 ।।

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ।। 1.1.40 ।।

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। 1.1.41 ।।

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।। 1.1.42 ।।

खङ्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।। 1.1.43 ।।

स तेषां प्रतिशुश्राव राक्षसानां तथा वने ।। 1.1.44 ।।

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।। 1.1.45 ।।

तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।। 1.1.46 ।।

ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।। 1.1.47 ।।

निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् ।। 1.1.48 ।।

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ।। 1.1.49 ।।

सहायं वरयामास मारीचन्नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ।। 1.1.50 ।।

न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।। 1.1.51 ।।

जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।। 1.1.52 ।।

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।। 1.1.53 ।।

राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।। 1.1.54 ।।

मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।। 1.1.55 ।।

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ।। 1.1.56 ।।

श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।
सो
भ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ।। 1.1.57 ।।

शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ।। 1.1.58 ।।

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।। 1.1.59 ।।

आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।। 1.1.60 ।।

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ।। 1.1.61 ।।

रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।। 1.1.62 ।।

वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ।। 1.1.63 ।।

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ।। 1.1.64 ।।

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ।। 1.1.65 ।।

बिभेद च पुनस्तालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ।। 1.1.66 ।।

ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ।। 1.1.67 ।।

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ।। 1.1.68 ।।

अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ।। 1.1.69 ।।

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ।। 1.1.70 ।।

स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ।। 1.1.71 ।।

ततो गृध्रस्य वचनात्सम्पातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ।। 1.1.72 ।।

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।। 1.1.73 ।।

निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ।। 1.1.74 ।।

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ।। 1.1.75 ।।

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ।। 1.1.76 ।।

ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ।। 1.1.77 ।।

सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ।। 1.1.78 ।।

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ।। 1.1.79 ।।

दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ।। 1.1.80 ।।

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ।। 1.1.81 ।।

तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।। 1.1.82 ।।

ततो ऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ।। 1.1.83 ।।

कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ।। 1.1.84 ।।

अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ।। 1.1.85 ।।

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ।। 1.1.86 ।।

भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः ।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ।। 1.1.87 ।।

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ।। 1.1.88 ।।

नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः ।
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ।। 1.1.89 ।।

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।। 1.1.90 ।।

न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ।। 1.1.91 ।।

न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ।। 1.1.92 ।।

न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ।। 1.1.93 ।।

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।। 1.1.94 ।।

गवां कोट्ययुतं दत्त्वा ब्रह्मलोकं प्रयास्यति ।
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ।। 1.1.95 ।।

राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।। 1.1.96 ।।

दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। 1.1.97 ।।

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ।। 1.1.98 ।।

एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ।। 1.1.99 ।।

पठन् द्विजो वागृषभत्वमीयात्स्यात् क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रो ऽपि महत्त्वमीयात् ।। 1.1.100 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ।। 1 ।।

सकरान्तनपुंसकलिङ्गशब्दाः - neuter words ending in s

सकरान्तनपुंसकलिङ्गशब्दाः

एकवचनम् द्विवचनम्बहुवचनम्
प्रथमातपःतपसीतपांसि
सं.प्रहे तपःहे तपसीहे तपांसि
द्वितीयातपःतपसीतपांसि
तृतीयातपसातपोभ्याम्तपोभिः
चतुर्थीतपसेतपोभ्याम्तपोभ्यः
पञ्चमीतपसःतपोभ्याम्तपोभ्यः
षष्ठीतपसःतपसोःतपसाम्
सप्तमीतपसितपसोःतपस्सु

घञ् प्रत्ययः The gha~n suffix

Introduction:

The घञ् प्रत्ययः is added to a dhAtu to make it into a नामपदम्

Details:

http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.3.18.htm

Examples:

1.1.1 तपः = तप सन्तापे (भ्वादि) तप् + घञ्
1.1.1 अध्यायः = अधि  इङ् अध्ययने (नित्यमधिपूर्वः)

Learn Sanskrit through Ramayanam

वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसङ्गता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ॥

The Ramayanam Ganges*, born in the Valmiki Mountain** and proceeding towards the Rama Ocean*** cleanses the three worlds****.
* Ramayanam and Ganges have same quality of removing the sins of those who immerse themselves in them.
** Both the Himalayas and Valmiki are magnificent ones, one gives rise to the Ganges, another gave rise to the Ramayanam
*** Rama is an ocean owing to his vastness and depth of his grace and love towards all living beings.
**** The Ganga is called as त्रिपथगा i.e. one who flows through three paths (the heavens, earth and the nether worlds).

In starting this site, we seek to:
1. Help the lovers of Sanskrit to learn it through the oldest epic of the world, Ramayanam.
2. Cleanse ourselves: As pronunciation of each syllable of rAmAyaNam cleanses one's great sins (चरितं रघुनाथस्य शतकोटि प्रविस्तरम् एकैकमक्षरं पुंसां महापातक नाशनम् ).
3. Give ourselves a learning tool which we can revisit to strengthen our understanding.

The inspiration for this site is the beautiful site of Shri Shripad Abhyankar which helps people learn Sanskrit through Gita. You may access the site here: http://study1geetaa2sanskrit.wordpress.com/

We have been teaching rAmAyaNam to a few people since the past 1 year and by bhagavatkR^ipaa there has been an increase in the number of people attending the classes. Whatever is being taught to them, if carried here will be of some help to someone somewhere.

We welcome your suggestions / feedback. Please send them by email on shrivathsa [DOT] brahma [AT] gmail [DOT] com.

In case you are interested in attending the classes, you are welcome, in this case, please write to us on the above mail ID with an introduction of yourself.. The classes are free and are held every Saturday and Sunday. The classes are held in an informal and friendly environment.