Sunday, March 2, 2014

श्रीरामचरितम् -- सीताराम-कल्याणपर्यन्तम्


"This is the 12th lesson from the Sanskrit Reader- 6th standard, TamilNadu government, Department of School Education. (Pg.39-40) Here is an attempt to give a word to word meaning and translation. This is only put here with an intention to help Sanskrit beginner-Learners."
श्रीरामचरितम्
श्रीरामचन्द्रः श्रितपारिजातः समस्तकल्याणगुणाभिरामः ।
सीतामुखाम्भोरुहचञ्चरीकः निरन्तरं मङ्गलमातनोतु ॥
पदविभागः-
श्रीरामचन्द्रः, श्रित-पारिजातः, समस्त-कल्याण-गुणाभिरामः, सीता-मुख-अम्भोरुह-चञ्चरीकः निरन्तरं मङ्गलम् आतनोतु ।
अन्वयः-
श्री रामचन्द्रः, श्रितपरीजातः, समस्तकल्याण-गुण-अभिरामः, सीता-मुख-अम्भोरुह-चञ्चरीकः निरन्तरं मङ्गलं आतनोतु।
प्रतिपदार्थः-
श्रीरामचन्द्रः - श्रीरामचन्द्र
समस्त-कल्याण-गुणाभिरामः - संपूर्ण कल्याण गुणों से युक्त
श्रितपारिजातः - आश्रित जनों के लिए पारिजात वृक्ष समान [पारमस्यास्तीति पारी समुद्रस्तत्र जातः, तस्य समुद्रोत्पन्नत्वात्] 1 N. of one of the five trees of Paradise, Nictanthus arbor-tristis
सीतामुख-अम्भोरुह- चञ्चरीकः -  सीता का मुख कमल के लिए भौरे के समान
निरन्तरं- निरन्तर
मङ्गलं - मङ्गल
आतनोतु - प्रदान करे
तात्पर्यम्-
संपूर्ण कल्याण गुणों से युक्त, आश्रित जनों के लिए पारिजात वृक्ष समान, सीता का मुख कमल के लिए भौरे के समान- श्री राम चन्द्र निरन्तर मङ्गल प्रदान करे।
श्लोकः - 1
आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः ।
भार्यास्तिस्रोsपि लब्ध्वाऽसौ तासु लेभे न सन्ततिम् ॥१॥
पदविभागः -
आसीद् दशरथः नाम सूर्यवंशे अथ पार्थिवः भार्याः तिस्रः अपि लब्ध्वा असौ तासु सन्ततिं न लेभे ।
अन्वयः -
अथ सूर्यवन्शे दशरथः नाम पार्थिवः आसीत्। असौ तिस्रः भार्याः लब्ध्वा अपि तासु सन्ततिं न लेभे ।
प्रतिपदार्थः -
अथ - अब (प्रारम्भसूचक शब्द)
सूर्यवंशे - सूर्य वंश में
दशरथः नाम - दशरथ नाम का
पार्थिवः - राजा
आसीत् - था
तिस्रः - तीन
भार्याः - पत्नियों को
लब्ध्वा - पाकर
अपि - भी
असौ - उन्हें
तासु  - उन (में) से
सन्ततिं - संतान
न - नहीं
लेभे - प्राप्त किया
तात्पर्यम् -
सूर्य वंश में दशरथ नाम का राजा था। तीन पत्निया पाकर उन्हे उन से संतान नहीं प्राप्त हुआ।
श्लोकः - 2
ततः सुमन्त्रवचनात् ऋश्यशृङ्गं स भूपतिः ।
आनीय पुत्रकामेष्टिम् आरेभे सपुरोहितः ॥२॥
पदविभागः -
ततः सुमन्त्र वचनात् ऋश्य शृङ्गं स भूपतिः आनीय पुत्र-कामेष्टिम् आरेभे सपुरोहितः ॥
अन्वयः -
ततः स भूपतिः सुमन्त्र-वचनात् ऋश्य-शृङ्गं आनीय सपुरोहितः पुत्रकामेष्टिम् आरेभे ।
प्रतिपदार्थः -
ततः - तब
स - वह
भूपतिः - राजा
सुमन्त्र-वचनात् - सुमन्त्र के कहने पर
ऋश्यशृङ्गं - ऋश्यशृङ्ग ऋषि को
आनीय - लाकर
सपुरोहितः - पुरोहितों के साथ मिलकर
पुत्रकामेष्टिम् - पुत्र की कामना पूरी करने के लिये यज्ञ
आरेभे - आरम्भ किया
तात्पर्यम् - उस राजा ने सुमन्त्र के कहने पर ऋश्यशृङ्ग ऋषि को बुलाकर पुरोहितो के सहित पुत्र कामना से यज्ञ प्रारम्भ किया ।
श्लोकः - 3
अथाग्नेरुत्थितः कश्चित् गृहीत्वा पायसं चरुम् ।
एतत्प्राशय पत्नीस्त्वं  इत्युक्त्वाऽदान्नृपाय सः॥३॥
पदविभागः -
अथ अग्नेः उत्थितः कश्चित् गृहीत्वा पायसं चरुम् एतत् प्राशय पत्नीः त्वं  इति उक्त्वा अदात् नृपाय सः।
अन्वयः-
अथ कश्चित् अग्नेः उत्थितः, पायसं चरुम् गृहित्वा, “एतत् त्वं पत्नीः प्राशय” इति उक्त्वा सः नृपाय अदात्। 
प्रतिपदार्थः -
अथ - तब
अग्नेः - अग्नि से
उत्थितः - निकला हुआ
कश्चित् - कोई
पायसं - खीर
चरुम् - [चर् उन्] An oblation of rice or barley boiled for presentation to the gods and the manes;
गृहित्वा - लेकर
सः - वह 
एतत् - यह
त्वं - तुम 
पत्नीः - पत्नियो को 
प्राशय - खाने के लिये दो, खिलाओ
इति उक्त्वा - ऐसा कह कर
नृपाय - राजा के लिये
अदात् - दिया
तात्पर्यम् -
तब अग्नि से निकला हुआ कोई यज्ञपुरुष खीर लेकर आया, “यह तुम पत्नियो को खिलाओ” ऐसा कह कर राजा को दिया ।
श्लोकः - 4
पूर्णे कालेऽथ कौसल्या सज्जनांभोजभास्करम् ।
अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥४॥
पदविभागः -
पूर्णे काले अथ कौसल्या सज्जन-अम्भोज-भास्करम् अजीजनद् रामचन्द्रम् कैकेयी भरतम् तथा ।
अन्वयः - अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करम् रामचन्द्रम् तथा कैकेयी भरतम् (अजीजनद्)।
प्रतिपदार्थः -
अथ - इस प्रकार
पूर्णे काले - समय पूरा होने पर
कौसल्या - कौसल्या ने
सज्जन-अम्भोज-भास्करम् - कमल समान सज्जनों के लिए सूर्य को
रामचन्द्रम् - रामचन्द्र को
तथा - तथा
कैकेयी - कैकेयी ने
भरतम् - भरत को 
अजीजनद् - जन्म दिया । 
तात्पर्यम् -
इस प्रकार समय पूरा होने पर कौसल्या ने कमल समान सज्जनों के लिए सूर्य को रामचन्द्र को तथा कैकेयी ने भरत को  जन्म दिया । 
श्लोकः - 5
ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत् सुतौ ।
अकारयत् पिता तेषां जातकर्मादिकं द्विजैः ॥५॥
पदविभागः -
ततः लक्ष्मण-शत्रुघ्नौ सुमित्रा अजीजनत् सुतौ अकारयत् पिता तेषां जातकर्म-आदिकं द्विजैः।
अन्वयः-
ततः सुमित्रा लक्ष्मणशत्रुघ्नौ सुतौ अजीजनत्। पिता तेषां जातकर्म-आदिकं द्विजैः अकारयत् ।
प्रतिपदार्थः -
ततो - तब
सुमित्रा - सुमित्रा ने
लक्ष्मणशत्रुघ्नौ - लक्ष्मण और शत्रुघ्न को
सुतौ - दो पुत्रों को
अजीजनत् - जन्म दिया
पिता - पिता ने
तेषां - उनका
जातकर्मादिकं - जातकर्म आदि संस्कार
द्विजैः - ब्रह्मणो के द्वारा
अकारयत् - करवाया 
तात्पर्यम् -
तब सुमित्रा ने  लक्ष्मण और शत्रुघ्न नामक पुत्रों को जन्म दिया। उनके पिता ने ब्राह्मणों के द्वारा
उनका जातकर्म आदि संस्कार करवाया ।
श्लोकः - 6
ततः कदाचिदागत्य विश्वामित्रो महामुनिः ।
ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम्  ॥६॥
पदविभागः -
ततः कदाचिद् आगत्य विश्वामित्रः महामुनिः ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ।
अन्वयः -
ततः कदाचिद् महामुनिः विश्वामित्रः आगत्य यज्ञरक्षार्थम् शक्तिधरोपमम् रामं ययाचे ।
प्रतिपदार्थः -
ततः - तब
कदाचिद् - एकबार
महामुनिः - महामुनि
विश्वामित्रः - विश्वामित्र
आगत्य - आकर
यज्ञरक्षार्थम् - यज्ञ कि रक्षा के लिये
शक्तिधरोपमम् - शक्ति को धारण करणे वाले
रामं - राम को
ययाचे - माँगा
तात्पर्यम् -
तब एकबार महामुनि विश्वामित्र आकर यज्ञ कि रक्षा के लिये शक्ति को धारण करणे वाले राम को (साथ भेजने के लिए) पूछा ।
श्लोकः - 7
गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः।
ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥७॥
पदविभागः-
गच्छन् सह-अनुजः रामः कौशिकेन प्रचोदितः ताटकाम् अवधीद् धीमान् लोक-पीडन-तत्पराम् ।
अन्वयः-
धीमान् रामः सह अनुजः कौशिकेन प्रचोदितः गच्छन् लोक-पीडन-तत्पराम् ताटकाम् अवधीत् ।
प्रतिपदार्थः -
धीमान् - बुद्धिमान्
राम - राम ने
सह-अनुजः - भाई के साथ
कौशिकेन - कौशिक के द्वारा
प्रचोदितः - प्रेरित होते हुए
गच्छन् - जाते हुये
लोक-पीडन-तत्पराम् - संसार को पीडा देने के लिए तत्पर
ताटकाम् - ताटका नाम की राक्षसी को
अवधीद् - मार दिया
तात्पर्यम् -
बुद्धिमान् राम ने भाई के साथ, कौशिक द्वारा प्रेरित होकर जाते हुये, संसार को पीडा देने के लिए तत्पर ताटका नाम की राक्षसी को मार दिया।
श्लोकः - 8
ततः सिद्धाश्रमं प्राप्य कौशिकः सह राघवः।
अध्वरं च समारेभे राक्षसाश्च समागमन् ॥८॥
पदविभागः-
ततः सिद्ध-आश्रमम् प्राप्य कौशिकः सह राघवः अध्वरं च समारेभे राक्षसाः च समागमन् ।
अन्वयः -
ततः कौशिकः सह राघवः सिद्ध-आश्रमं प्राप्य, अध्वरं समारेभे। राक्षसाः च समागमन् ।
प्रतिपदार्थः -
ततः - तब
कौशिकः - विश्वामित्र
सह राघवः - राम के साथ
सिद्ध-आश्रमं - सिद्धाश्रम को, विश्वामित्र का आश्रम
प्राप्य - प्राप्त कर, पहुँच कर
अध्वरं - यज्ञ को
समारेभे - प्रारम्भ किया
राक्षसाः च - और राक्षस
समागमन् - आगए
तात्पर्यम् - 
तब विश्वामित्र राम के साथ सिद्धाश्रम पहुँच कर यज्ञ को प्रारम्भ किया। और राक्षस आगए।
श्लोकः - 9
राघवस्तु ततोऽस्रेण क्षिप्त्वा मारीचमर्णवे ।
सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः॥९॥
पदविभागः -
राघवः तु ततः अस्रेण क्षिप्त्वा मारीचम् अर्णवे सुबाहुप्रमुखान् हत्वा यज्ञं च अपालयन् मुनेः।
अन्वयः -
ततः अर्णवे राघवः अस्रेण क्षिप्त्वा मारीचम्, सुबाहुप्रमखान् च हत्वा मुनेः यज्ञं अपालयन्।
प्रतिपदार्थः-
ततः - तब
अर्णवे - संघर्ष में
तु - निश्चित ही
राघवः - राम ने
अस्रेण - अस्त्र से
क्षिप्त्वा - फेंककर
मारीचम् - मारीच को
च - और
सुबाहुप्रमुखान् - सुबाहु के सहित अन्य प्रमुखो राक्षसों को
हत्वा - मारकर
मुनेः - मुनि के
यज्ञं - यज्ञ (को) की
अपालयन् - पालन किया, रक्षा किया
तात्पर्यम् -
तब संघर्ष में निश्चित ही राम ने अस्त्रों से मारीच को और सुबाहु के सहित अन्य प्रमुख राक्षसों को
मारकर मुनि के यज्ञ की रक्षा की।
श्लोकः - 10
कौशिकेन ततो रामो नीयमानः सहानुजः।
अहल्याशापनिर्मोक्षं कृत्वा संप्राप मैथिलीम् ॥१०॥
पदविभागः -
कौशिकेन ततः रामः नीयमानः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा संप्राप मैथिलीम् ।
अन्वयः-
ततः रामः सह-अनुजः कौशिकेन नीयमानः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलीम् संप्राप ।
प्रतिपदार्थः-
ततः - तब 
सह-अनुजः - भाई के साथ (लक्ष्मण)
रामः - राम
कौशिकेन - विश्वामित्र द्वारा
नीयमानः - लेजाए जाते हुए
अहल्या - अहिल्या को
शापनिर्मोक्षं - श्राप से मुक्ति
कृत्वा - करके
मैथिलीम् - मिथिला नगरी (सीता?)
संप्राप - पहुँचे
तात्पर्यम् -
तब श्रीराम, अनुज लक्ष्मण के सहित, विश्वामित्र के द्वारा लेजाए जाते हुए, अहल्या को शाप मुक्त कराके मिथिला नगरी आये ।
श्लोकः - 11
जनकेनार्चितो रामः कौशिकेन प्रचोदितः।
सीतानिमित्तमानीतं बभञ्ज धनुरैश्वर्यम् ॥११॥
पदविभागः
जनकेन अर्चितः रामः कौशिकेन प्रचोदितः सीता-निमित्तम् आनीतं बभञ्ज धनुः ऐश्वर्यम् ।
अन्वयः -
जनकेन अर्चितः, रामः कौशिकेन प्रचोदितः सीतानिमित्तम् आनीतं ऐश्वर्यम् धनुः बभञ्ज।
प्रतिपदार्थः -
जनकेन - जनक के द्वारा
अर्चितः - पूजित हुए
कौशिकेन - विश्वामित्र द्वारा
प्रचोदितः - प्रेरित होते हुए
रामः - राम
सीतानिमित्तम् - सीता के लिये
आनीतं - आये
धनुः ऐश्वर्यम् - ईश्वर धनुष, शिव धनुष
बभञ्ज - भङ्ग किया, तोडा
तात्पर्यम् -
जनक के द्वारा पूजित हुए, विश्वामित्र द्वारा प्रेरित होते हुए, राम सीता के लिये लाये गए शिव धनुष को तोडा।
श्लोकः - 12
ततो दशरथं दूतैः आनाय्य मिथिलाधिपः।
रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥१२॥
पदविभाग -
ततः दशरथं दूतैः आनीय मिथिलाधिपः रामादिभ्यः तत् सुतेभ्यः सीताद्याः कन्यकाः ददौ ।
अन्वयः -
ततः  मिथिलाधिपः दूतैः दशरथं आनीय तत्-सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ।
प्रतिपदार्थः -
ततः - तब
मिथिलाधिपः - मिथिला के राजा ने
दूतैः - दूतों के द्वारा
दशरथं - दशरथ को
आनीय - लाकर
रामादिभ्यः - राम आदि
तत्-सुतेभ्यः - उनके पुत्रों के लिये
सीताद्याः - सीता आदि
कन्यकाः - कन्याओं को
ददौ - (विवाह में कन्यादान) दिया
तात्पर्यम् -
तब मिथिला के राजा ने दूतों के द्वारा दशरथ को बुलाकर, उनके रामादि पुत्रो के लिये सीता आदि कन्याओं का प्रदान किया।
 

Wednesday, January 29, 2014

सन्धिः

अष्टाध्याय्यां संहिताधिकारे सन्धिसूत्राणि सन्ति, परन्तु तत्र सन्धिशब्दः न दृश्यते कदाचिदपि। परः सन्निकर्षः संहिता (अष्टा 1.4.109) इति सूत्रेण वर्णानामतिशयितः सन्निधिः संहिता इति नाम्ना व्यवहृता पाणिनिना। सति संहितायां सन्धिः, तदभावे सन्ध्यभावः। सा च संहिता विवक्षिताधीना वाक्ये, उक्तञ्च –
              संहितैकपदेनित्या नित्या धातूपसर्गयोः।
              नित्या समासे च वाक्ये सा विवक्षामपेक्षते॥ इति॥
"संहितायाम्", इति आधिकारः अष्टाध्याय्यां वारत्रयं दृश्यते। प्रथमः संहितायाम् (अष्टा 6.1.72) इति षष्ठाध्यायस्य प्रथमे पादे, एष अधिकारः अनुदात्तं पदमेकवर्जम् (अष्टा 6.1.158) इति यावदधिक्रियते। अस्मिन्नधिकारे अच्सन्धिः, एकादेशसन्धिः, तुगागमः, सुडागमः, प्रकृतिभावश्च वर्तन्ते।
    द्वितीयः अधिकारः संहितायाम् (अष्टा 6.3.114) इति षष्ठाध्याये एव तृतीये पादे वर्तते। आपादपरिसमाप्तेरधिकारोऽयम्। अस्मिन्नधिकारे दीर्घविधिर्विहितः।
     तृतीयः संहिताधिकारः तयोर्य्वावचिसंहितायाम् (अष्टा 8.2.108) इति अष्टमाध्याये द्वितीये पादे वर्तते। अयमधिकारः अष्टमाध्यायसमाप्तिपर्यन्तं वर्तते। अस्मिन्नधिकारे रुत्वविधिः, धुडाद्यागमः, विसर्जनीयादेशाः, षत्वविधः, णत्वविधिः, श्चुत्वादिहल्सन्धयश्च वर्तन्ते।
     एवञ्च त्रिषुसंहिताधिकारेषु आगमाः, आदेशाः, लोपः, प्रकृतिभावश्च विधयः विहिताः। तेषामेव पदसन्धिः, अपदसन्धिः इत्यपि विभज्य वक्तुं शक्यते।
1.     आगमाः – मित्रवदागमः। संहितायां सत्यां मित्रवदागत्य द्वयोर्वर्णयोर्मध्ये तिष्ठति। यथा – डः सि धुट् (अष्टा 8.3.29) इति। अनेन धुडागमः विधीयते। अत्र स इति वर्णस्यैव निमित्तत्वात् सन्धिनाम्ना व्यवहारः।
2.  आदेशाः – शत्रुवदादेशः। सतिसंहितायां द्वयोर्वर्णयोर्मध्ये शत्रुवदागत्य यः तिष्ठति सः आदेशः इति। अयमादेशः द्विविधः एकादेशः, तद्भिन्नश्चेति।
एकः पूर्वपरयोः(अष्टा 6.1.84) इति इति सूत्रेण एकादेशाधिकारः विधीयते। पूर्वपरयोः स्थाने एक एव आदेशः भवति चेत् स एकादेशः। अस्मिन्नधिकारे अच्सन्धिः विहितः। आद्गुणः (अष्टा 6.1.87), वृद्धिरेचि(अष्टा 6.1.88), एत्येधत्यूठ्सु (अष्टा 6.1.89) इत्यादीनि एकादेशस्योदाहरणानि।
सामान्यादेशस्य इको यणचि (अष्टा 6.1.77), एचोऽयवायावः (अष्टा 6.1.78), अवङ् स्फोटायनस्य (अष्टा 6.1.123) इत्यादीन्युदाहरणानि। अजादेशः, हलादेशः इति अयमादेशः द्विविधः। अच्स्थाने यः आदेशः भवति सः अजादेशः। हलः स्थाने यः आदेशः भवति सः हलादेशः। अजादेशस्य इको यणचि इत्यादीन्युदाहरणानि। हलादेशस्य समः सुटि (अष्टा 8.3.5) इत्यादीन्युदाहरणानि।
3.  लोपः – अदर्शनं लोपः (अष्टा 1.1.60) इति सूत्रेण प्रसक्तस्य अदर्शनमेव लोपः इति लोपसंज्ञा विहिता। संहितायां यः लोपः विधीयते सः लोपसन्धिः। एतत्तदोः सुलोपोऽकोरनञ् समासे हलि (अष्टा 6.1.132), स्यश्छन्दसि बहुलम् (अष्टा 6.1.133), हलो यमां यमि लोपः (अष्टा 8.4.64) इत्यादीनि उदाहरणानि।
4.  प्रकृतिभावः – संहितायामपि द्वयोः अचोः सन्ध्यभाव एव प्रकृतिभावः इति कथ्यते। प्रकृतिभावः केवलमज्विषयकः। प्रकृतिभावः प्रथमसंहिताधिकारे प्रकृत्यान्तः पादम् (अष्टा 6.1.115) इत्यारभ्य ऋत्यकः (अष्टा 6.1.128) पर्यन्तं वर्तते।
    पदसन्धिः, अपदसन्धिः इत्यपि सन्धिर्द्विधा। पदात्, पदस्य इत्यधिकारान्तरे विधीयमानसन्धिः पदसन्धिः। तद्भिन्नः अपदसन्धिः। अपदस्य विधीयमानसन्धिः, एवं अपदे इत्युक्त्वा च विधायमानः सन्धिः अपदसन्धिः। त्रिषु संहिताधिकारेषु विधीयमानानामेव एवं व्यवहारः।
    खरवसानयोर्विसर्जनीयः (अष्टा 8.3.15), मोऽनुस्वारः (अष्टा 8.3.23), ओतो गार्ग्यस्य (अष्टा 8.3.20) इत्यादीनि पदसन्धेरुदाहरणानि। स्तोः श्चुना श्चुः (अष्टा 8.4.40), तोः षि (अष्टा 8.4.43) इत्यादीनि पदापदसामान्यानि। न श्चाऽपदादान्तस्य झलि (अष्टा 8.3.24) , सोऽपदादौ (अष्टा 8.3.38) इत्यादीनि अपदसन्धेरुदाहरणानि।


Saturday, November 30, 2013

01 Balakanda 07 Sarga बालकाण्डः ०७ सर्गः

तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1.7.1 ।।

  
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ।। 1.7.2 ।।


धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमो ऽभवत् ।। 1.7.3 ।।


ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथा ऽपरे ।। 1.7.4 ।।


विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।। 1.7.5 ।।


कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ।
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।। 1.7.6 ।।


तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ।। 1.7.7 ।।


कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ।। 1.7.8 ।।


कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं वापि पुरुषं न विहिंस्युरदूषकम् ।। 1.7.9 ।।


वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ।। 1.7.10 ।।


ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ।। 1.7.11 ।।


शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ।। 1.7.12 ।।


कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ।। 1.7.13 ।।


सुवाससः सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ।। 1.7.14 ।।


गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ।। 1.7.15 ।।


सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ।
मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।। 1.7.16 ।।


नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ।। 1.7.17 ।।


ईदृशैस्तैरमात्यैश्च राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।। 1.7.18 ।।

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।। 1.7.19 ।।


विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ।। 1.7.20 ।।


नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद्राजा दिवं देवपतिर्यथा ।। 1.7.21 ।।


तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतो ऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितो ऽर्कः ।। 1.7.22 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे सप्तमः सर्गः ।। 7 ।।

Saturday, November 9, 2013

01 Balakanda 06 Sarga बालकाण्डः ०६ सर्गः

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।। 1.6.1 ।।


इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ।। 1.6.2 ।।


बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः ।। 1.6.3 ।।


यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसन् जगदपालयत् ।। 1.6.4 ।।


तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।। 1.6.5 ।।


तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ।। 1.6.6 ।।


नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ।। 1.6.7 ।।


कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ।। 1.6.8 ।।


सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ।। 1.6.9 ।।


नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्ऺटो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ।। 1.6.10 ।।

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ।। 1.6.11 ।।


नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ।। 1.6.12 ।।


स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ।। 1.6.13 ।।


न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न वाशक्तो नाविद्वान् विद्यते तदा ।। 1.6.14 ।।


नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।। 1.6.15 ।।


कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ।। 1.6.16 ।।


वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ।। 1.6.17 ।।

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ।। 1.6.18 ।।


क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ।। 1.6.19 ।।


सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ।। 1.6.20 ।।


योधानामऺग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ।। 1.6.21 ।।


काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ।। 1.6.22 ।।


विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ।। 1.6.23 ।।


ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ।। 1.6.24 ।।


भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ।
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।। 1.6.25 ।।
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसन् जगदपालयत् ।। 1.6.26 ।।
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ।। 1.6.27 ।।


तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपतिः ।। 1.6.28 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे षष्ठः सर्गः ।। 6 ।।

Friday, October 4, 2013

01 Balakanda 005 Sarga बालकाण्डः ०५ सर्गः

सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। 1.5.1 ।।


येषां स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।। 1.5.2 ।।

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।। 1.5.3 ।।


तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयया ।। 1.5.4 ।।


कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।। 1.5.5 ।।


अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। 1.5.6 ।।


आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।। 1.5.7 ।।

राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ।। 1.5.8 ।।


तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः ।
पुरीमावासयामास दिवं देवपतिर्यथा ।। 1.5.9 ।।


कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ।। 1.5.10 ।।


सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ।। 1.5.11 ।।


वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।। 1.5.12 ।।


दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ।। 1.5.13 ।।


सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।। 1.5.14 ।।


प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।। 1.5.15 ।।


चित्रामष्टापदाकारां वरनारीगणैर्युताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।। 1.5.16 ।।

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ।। 1.5.17 ।।


दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।। 1.5.18 ।।

विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।। 1.5.19 ।।

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ।। 1.5.20 ।।


सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ।। 1.5.21 ।।


तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ।। 1.5.22 ।।


तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ।। 1.5.23 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे पञ्चमः सर्गः ।। 5 ।।