Wednesday, January 29, 2014

सन्धिः

अष्टाध्याय्यां संहिताधिकारे सन्धिसूत्राणि सन्ति, परन्तु तत्र सन्धिशब्दः न दृश्यते कदाचिदपि। परः सन्निकर्षः संहिता (अष्टा 1.4.109) इति सूत्रेण वर्णानामतिशयितः सन्निधिः संहिता इति नाम्ना व्यवहृता पाणिनिना। सति संहितायां सन्धिः, तदभावे सन्ध्यभावः। सा च संहिता विवक्षिताधीना वाक्ये, उक्तञ्च –
              संहितैकपदेनित्या नित्या धातूपसर्गयोः।
              नित्या समासे च वाक्ये सा विवक्षामपेक्षते॥ इति॥
"संहितायाम्", इति आधिकारः अष्टाध्याय्यां वारत्रयं दृश्यते। प्रथमः संहितायाम् (अष्टा 6.1.72) इति षष्ठाध्यायस्य प्रथमे पादे, एष अधिकारः अनुदात्तं पदमेकवर्जम् (अष्टा 6.1.158) इति यावदधिक्रियते। अस्मिन्नधिकारे अच्सन्धिः, एकादेशसन्धिः, तुगागमः, सुडागमः, प्रकृतिभावश्च वर्तन्ते।
    द्वितीयः अधिकारः संहितायाम् (अष्टा 6.3.114) इति षष्ठाध्याये एव तृतीये पादे वर्तते। आपादपरिसमाप्तेरधिकारोयम्। अस्मिन्नधिकारे दीर्घविधिर्विहितः।
     तृतीयः संहिताधिकारः तयोर्य्वावचिसंहितायाम् (अष्टा 8.2.108) इति अष्टमाध्याये द्वितीये पादे वर्तते। अयमधिकारः अष्टमाध्यायसमाप्तिपर्यन्तं वर्तते। अस्मिन्नधिकारे रुत्वविधिः, धुडाद्यागमः, विसर्जनीयादेशाः, षत्वविधः, णत्वविधिः, श्चुत्वादिहल्सन्धयश्च वर्तन्ते।
     एवञ्च त्रिषुसंहिताधिकारेषु आगमाः, आदेशाः, लोपः, प्रकृतिभावश्च विधयः विहिताः। तेषामेव पदसन्धिः, अपदसन्धिः इत्यपि विभज्य वक्तुं शक्यते।
1.     आगमाः – मित्रवदागमः। संहितायां सत्यां मित्रवदागत्य द्वयोर्वर्णयोर्मध्ये तिष्ठति। यथा – डः सि धुट् (अष्टा 8.3.29) इति। अनेन धुडागमः विधीयते। अत्र स इति वर्णस्यैव निमित्तत्वात् सन्धिनाम्ना व्यवहारः।
2.  आदेशाः – शत्रुवदादेशः। सतिसंहितायां द्वयोर्वर्णयोर्मध्ये शत्रुवदागत्य यः तिष्ठति सः आदेशः इति। अयमादेशः द्विविधः एकादेशः, तद्भिन्नश्चेति।
एकः पूर्वपरयोः(अष्टा 6.1.84) इति इति सूत्रेण एकादेशाधिकारः विधीयते। पूर्वपरयोः स्थाने एक एव आदेशः भवति चेत् स एकादेशः। अस्मिन्नधिकारे अच्सन्धिः विहितः। आद्गुणः (अष्टा 6.1.87), वृद्धिरेचि(अष्टा 6.1.88), एत्येधत्यूठ्सु (अष्टा 6.1.89) इत्यादीनि एकादेशस्योदाहरणानि।
सामान्यादेशस्य इको यणचि (अष्टा 6.1.77), एचोयवायावः (अष्टा 6.1.78), अवङ् स्फोटायनस्य (अष्टा 6.1.123) इत्यादीन्युदाहरणानि। अजादेशः, हलादेशः इति अयमादेशः द्विविधः। अच्स्थाने यः आदेशः भवति सः अजादेशः। हलः स्थाने यः आदेशः भवति सः हलादेशः। अजादेशस्य इको यणचि इत्यादीन्युदाहरणानि। हलादेशस्य समः सुटि (अष्टा 8.3.5) इत्यादीन्युदाहरणानि।
3.  लोपःअदर्शनं लोपः (अष्टा 1.1.60) इति सूत्रेण प्रसक्तस्य अदर्शनमेव लोपः इति लोपसंज्ञा विहिता। संहितायां यः लोपः विधीयते सः लोपसन्धिः। एतत्तदोः सुलोपोकोरनञ् समासे हलि (अष्टा 6.1.132), स्यश्छन्दसि बहुलम् (अष्टा 6.1.133), हलो यमां यमि लोपः (अष्टा 8.4.64) इत्यादीनि उदाहरणानि।
4.  प्रकृतिभावः – संहितायामपि द्वयोः अचोः सन्ध्यभाव एव प्रकृतिभावः इति कथ्यते। प्रकृतिभावः केवलमज्विषयकः। प्रकृतिभावः प्रथमसंहिताधिकारे प्रकृत्यान्तः पादम् (अष्टा 6.1.115) इत्यारभ्य ऋत्यकः (अष्टा 6.1.128) पर्यन्तं वर्तते।
    पदसन्धिः, अपदसन्धिः इत्यपि सन्धिर्द्विधा। पदात्, पदस्य इत्यधिकारान्तरे विधीयमानसन्धिः पदसन्धिः। तद्भिन्नः अपदसन्धिः। अपदस्य विधीयमानसन्धिः, एवं अपदे इत्युक्त्वा च विधायमानः सन्धिः अपदसन्धिः। त्रिषु संहिताधिकारेषु विधीयमानानामेव एवं व्यवहारः।
    खरवसानयोर्विसर्जनीयः (अष्टा 8.3.15), मोनुस्वारः (अष्टा 8.3.23), ओतो गार्ग्यस्य (अष्टा 8.3.20) इत्यादीनि पदसन्धेरुदाहरणानि। स्तोः श्चुना श्चुः (अष्टा 8.4.40), तोः षि (अष्टा 8.4.43) इत्यादीनि पदापदसामान्यानि। श्चाऽपदादान्तस्य झलि (अष्टा 8.3.24) , सोपदादौ (अष्टा 8.3.38) इत्यादीनि अपदसन्धेरुदाहरणानि।


Saturday, November 30, 2013

01 Balakanda 07 Sarga बालकाण्डः ०७ सर्गः

तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1.7.1 ।।

  
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ।। 1.7.2 ।।


धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमो ऽभवत् ।। 1.7.3 ।।


ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथा ऽपरे ।। 1.7.4 ।।


विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।। 1.7.5 ।।


कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ।
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।। 1.7.6 ।।


तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ।। 1.7.7 ।।


कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ।। 1.7.8 ।।


कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं वापि पुरुषं न विहिंस्युरदूषकम् ।। 1.7.9 ।।


वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ।। 1.7.10 ।।


ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ।। 1.7.11 ।।


शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ।। 1.7.12 ।।


कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ।। 1.7.13 ।।


सुवाससः सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ।। 1.7.14 ।।


गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ।। 1.7.15 ।।


सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ।
मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।। 1.7.16 ।।


नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ।। 1.7.17 ।।


ईदृशैस्तैरमात्यैश्च राजा दशरथो ऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।। 1.7.18 ।।

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ।। 1.7.19 ।।


विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ।। 1.7.20 ।।


नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद्राजा दिवं देवपतिर्यथा ।। 1.7.21 ।।


तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतो ऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितो ऽर्कः ।। 1.7.22 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे सप्तमः सर्गः ।। 7 ।।

Saturday, November 9, 2013

01 Balakanda 06 Sarga बालकाण्डः ०६ सर्गः

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।। 1.6.1 ।।


इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ।। 1.6.2 ।।


बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः ।। 1.6.3 ।।


यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसन् जगदपालयत् ।। 1.6.4 ।।


तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।। 1.6.5 ।।


तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ।। 1.6.6 ।।


नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थो ऽगवाश्वधनधान्यवान् ।। 1.6.7 ।।


कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ।। 1.6.8 ।।


सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ।। 1.6.9 ।।


नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्ऺटो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ।। 1.6.10 ।।

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ।। 1.6.11 ।।


नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न च निर्वृत्तसङ्करः ।। 1.6.12 ।।


स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ।। 1.6.13 ।।


न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न वाशक्तो नाविद्वान् विद्यते तदा ।। 1.6.14 ।।


नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।। 1.6.15 ।।


कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ।। 1.6.16 ।।


वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ।। 1.6.17 ।।

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ।। 1.6.18 ।।


क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ।। 1.6.19 ।।


सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ।। 1.6.20 ।।


योधानामऺग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ।। 1.6.21 ।।


काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ।। 1.6.22 ।।


विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ।। 1.6.23 ।।


ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः ।। 1.6.24 ।।


भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ।
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।। 1.6.25 ।।
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसन् जगदपालयत् ।। 1.6.26 ।।
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ।। 1.6.27 ।।


तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपतिः ।। 1.6.28 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे षष्ठः सर्गः ।। 6 ।।

Friday, October 4, 2013

01 Balakanda 005 Sarga बालकाण्डः ०५ सर्गः

सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। 1.5.1 ।।


येषां स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।। 1.5.2 ।।

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।। 1.5.3 ।।


तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयया ।। 1.5.4 ।।


कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।। 1.5.5 ।।


अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। 1.5.6 ।।


आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।। 1.5.7 ।।

राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ।। 1.5.8 ।।


तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः ।
पुरीमावासयामास दिवं देवपतिर्यथा ।। 1.5.9 ।।


कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ।। 1.5.10 ।।


सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ।। 1.5.11 ।।


वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।। 1.5.12 ।।


दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ।। 1.5.13 ।।


सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।। 1.5.14 ।।


प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।। 1.5.15 ।।


चित्रामष्टापदाकारां वरनारीगणैर्युताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।। 1.5.16 ।।

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ।। 1.5.17 ।।


दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।। 1.5.18 ।।

विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।। 1.5.19 ।।

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ।। 1.5.20 ।।


सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ।। 1.5.21 ।।


तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ।। 1.5.22 ।।


तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ।। 1.5.23 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे पञ्चमः सर्गः ।। 5 ।।

Saturday, September 14, 2013

01 Balakanda 004 Sarga बालकाण्डः ०४ सर्गः


 01 Balakanda 004 Sarga बालकाण्डः ०४ सर्गः

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ।। 1.4.1 ।।


चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ।। 1.4.2 ।।


कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ।। 1.4.3 ।।


तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ।। 1.4.4 ।।


कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ।। 1.4.5 ।।


स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ।। 1.4.6 ।।


काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येव चकार चरितव्रतः ।। 1.4.7 ।।


पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ।। 1.4.8 ।।


रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः ।
रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ।। 1.4.9 ।।


तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ।। 1.4.10 ।।


रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ ।। 1.4.11 ।।


तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ।। 1.4.12 ।।


ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ।
महात्मानौ महाभागौ सर्वलक्षणऺलक्षितौ ।। 1.4.13 ।।


तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।
आसीनानां समीपस्थाविदं काव्यमगायताम् ।। 1.4.14 ।।


तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।
साधु साध्विति तावूचुः परं विस्मयमागताः ।। 1.4.15 ।।


ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।। 1.4.16 ।।


अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ।। 1.4.17 ।।


प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम् ।
सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।। 1.4.18 ।।


एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः ।
संरक्ततरमत्यर्थं मधुरं तावगायताम् ।। 1.4.19 ।।


प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।
प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः ।। 1.4.20 ।।


आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ।
परं कवीनामाधारं समाप्तं च यथाक्रमम् ।। 1.4.21 ।।


अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ।
आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ।। 1.4.22 ।।


प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ ।
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।। 1.4.23 ।।


स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ ।
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।। 1.4.24 ।।


आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ।
उपोपविष्टः सचिवैर्भ्रातृभिश्च परन्तपः ।। 1.4.25 ।।


दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा ।
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।। 1.4.26 ।।


श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ।
विचित्रार्थपदं सम्यग्गायिनौ तावचोदयत् ।। 1.4.27 ।।


तौ चापि मधुरं रक्तं स्वञ्चितायऺतनिःस्वनम् ।
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।। 1.4.28 ।।


ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ।। 1.4.29 ।।

इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ।। 1.4.30 ।।


ततस्तु तौ रामवचः प्रचोदितावगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनैर्बुभूषयासक्तमना बभूव ह ।। 1.4.31 ।।


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे चतुर्थः सर्गः ।। 4 ।।

Saturday, August 31, 2013

01 Balakanda 003 Sarga बालकाण्डः ०३ सर्गः

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1.3.1 ।। 
श्रुत्वा
वस्तु 
समग्रं 
तद्धर्मात्मा- तत् धर्मात्मा( जश्त्व सन्धि:)
धर्मसंहितम्
व्यक्तमन्वेषते- व्यक्तम् अन्वेषते
भूयो - भूय:
यद्वृत्तं - यत् वृत्तं
तस्य 
धीमतः 

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।। 1.3.2 ।। 
उपस्पृश्योदकं- उपस्पृश्य उदकम्
सम्यङ्मुनिः- सम्यक् मुनि:
स्थित्वा- स्था+ क्त्वा
कृताञ्जलिः
प्राचीनाग्रेषु -
दर्भेषु 
धर्मेणान्वेषत - धर्मेण अन्वेषते(सवर्ण दीर्घ सन्धि:)
गतिम् 

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ।। 1.3.3 ।।
रामलक्ष्मणसीताभिः
राज्ञा
दशरथेन

सभार्येण
सराष्ट्रेण 
यत् 
प्राप्तं 
तत्र 
तत्त्वतः 


हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् ।
तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति ।। 1.3.4 ।। 
हसितं
भाषितं 
चैवं-च एव
गतिर्या 
यच्च-यत् च
चेष्टितम् -
तत्सर्वं 
धर्मवीर्येण 
यथावत् 
सम्प्रपश्यति- सम्यक् प्रपश्यति

स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।। 1.3.5 ।। 
स्त्रीतृतीयेन
च 
तथा 
यत्प्राप्तं- यत्  प्राप्तं
चरता 
वने
सत्यसन्धेन
रामेण 
तत्सर्वं -तत् सर्वं
चान्ववेक्षितम्- च अन्ववेक्षितम्(सवर्ण दीर्घ सन्धि:)

 
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 1.3.6 ।। 
ततः 
पश्यति 
धर्मात्मा = धर्मं आत्मा यस्य स:
तत्सर्वं-तत् सर्वं
योगमास्थितः -योगम् आस्थित:(अनुस्वार सन्धि:)
पुरा 
यत्तत्र- यत् तत्र
निर्वृत्तं- निषेशेन वृत्त्ं
पाणावामलकं 
यथा 

तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः ।
अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः ।। 1.3.7 ।। 
तत्सर्वं- तत् सर्वं
तत्त्वतो
दृष्ट्वा 
धर्मेण 
स-स:
महाद्युतिः
अभिरामस्य
रामस्य 
चरितं 
कर्त्तुमुद्यतः

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 1.3.8 ।। 
कामार्थगुणसंयुक्तं
धर्मार्थगुणविस्तरम्
समुद्रमिव-समुद्रम् इव
रत्नाढ्यं
सर्वश्रुतिमनोहरम् 

स यथा कथितं पूर्वं नारदेन महर्षिणा ।
रघुवंशस्य चरितं चकार भगवानृषिः ।। 1.3.9 ।। 
स-स:
यथा 
कथितं 
पूर्वं
नारदेन
महर्षिणा
रघुवंशस्य
चरितं 
चकार 
भगवानृषिः- भगवान् ऋषि: 

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 1.3.10 ।। 
जन्म
रामस्य
सुमहद्वीर्यं
सर्वानुकूलताम्- सर्व अनुकूलताम्
लोकस्य 
प्रियतां 
क्षान्तिं 
सौम्यतां 
सत्यशीलताम् 
 
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 1.3.11 ।। 
नानाचित्रकथाश्चान्या- चित्रकथा: च अन्या:
विश्वामित्रसमागमे  
जानक्याश्च -जानक्या: च
विवाहं 
च 
धनुषश्च-धनुष: च
विभेदनम् 
 
रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 1.3.12 ।।

रामरामविवादं 
च 
गुणान् 
दाशरथेस्तथा- दशरथे: तथा
तथाभिषेकं- तथा अभिषेकं
रामस्य 
कैकेय्या-कैकेय्या:
दुष्टभावताम् 

विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 1.3.13 ।। 
विघातं
चाभिषेकस्य- च अभिषेकस्य
रामस्य 
च 
विवासनम्
राज्ञः 
शोकविलापं 
परलोकस्य
चाश्रयम्-च आश्रयम्

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 1.3.14 ।। 
प्रकृतीनां 
विषादं 
प्ररकृतीनां
विसर्जनम्
निषादाधिपसंवादं 
सूतोपावर्तनं 
तथा 

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 1.3.15 ।।

गङ्गायाश्चापि-गङ्गाया: च अपि
सन्तारं 
भरद्वाजस्य
दर्शनम्
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य -
भरद्वाजाभि अनज्ञानात् चित्रकूटस्य
दर्शनम्

वास्तुकर्म विवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 1.3.16 ।।
वास्तुकर्म
विवेशं 
भरतागमनं- भरतस्य आगमनं
तथा
प्रसादनं 
च 
रामस्य 
पितुश्च -पितु: च
सलिलक्रियाम्

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ।। 1.3.17 ।। 
पादुकाग्र्याभिषेकं
नन्दिग्रामनिवासनम्
दण्डकारण्यगमनं 
विराधस्य 
वधं 
तथा
 
दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् ।
अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।। 1.3.18 ।।
दर्शनं 
शरभङ्गस्य 
सुतीक्ष्णेनाभिसङ्गमम्
अनसूयासहास्यामप्यङ्गरागस्य -
अनसूयासहास्याम् अपि अङ्गरागस्य
चार्पणम् -च अर्पणम्

 
अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 1.3.19 ।। 
अगस्त्यदर्शनं
चैव-च एव
शूर्पणख्याश्च- शूर्पणख्या: च
दर्शनम्
शूर्पणख्याश्च-
शूर्पणख्या: च
संवादं 
विरूपकरणं 
तथा 
 
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।। 1.3.20 ।। 
वधं 
खरत्रिशिरसोरुत्थानं-खरत्रिशिरसो: उत्थानं
रावणस्य 
च 
 
मारीचस्य वधं चैव वैदेह्या हरणं तथा ।
राघवस्य विलापं च गृध्रराजनिबर्हणम् ।। 1.3.21 ।। 
मारीचस्य 
वधं 
चैव-च एव
वैदेह्या -वैदेह्या:
हरणं 
तथा
राघवस्य 
विलापं 
च 
गृध्रराजनिबर्हणम्-गृध्रराजस्य निबर्हणम्
 
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् ।
शबर्या दर्शनं चैव हनूमद्दर्शनं तथा ।
विलापं चैव पम्पायां राघवस्य महात्मनः ।। 1.3.22 ।। 
कबन्धदर्शनं
चापि -च अपि
पम्पायाश्चापि- पम्पाया: च अपि
दर्शनम्
शबर्या 
दर्शनं
चैव-च एव
हनूमद्दर्शनं 
तथा
विलापं
चैव-च एव
पम्पायां 
राघवस्य
महात्मनः 

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् । 
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 1.3.23 ।।
ऋश्यमूकस्य
गमनं
सुग्रीवेण
समागमम्
प्रत्ययोत्पादनं -प्रत्यय उत्पादनं
सख्यं 
वालिसुग्रीवविग्रहम् 

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
ताराविलापं समयं वर्षरात्रनिवासनम् ।। 1.3.24 ।। 
वालिप्रमथनं 
चैव-च एव
सुग्रीवप्रतिपादनम्
ताराविलापं 
समयं 
वर्षरात्रनिवासनम्  
 
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् ।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 1.3.25 ।। 
कोपं 
राघवसिंहस्य
बलानामुपसङ्ग्रहम् -बलानाम् उपसङ्ग्रहम्(अनुस्वार सन्धि:)
दिशः
प्रस्थापनं
चैव -च एव
पृथिव्याश्च-पृथिव्या: च
निवेदनम् 

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।
प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम् ।। 1.3.26 ।। 
अङ्गुलीयकदानं
च 
ऋक्षस्य 
बिलदर्शनम्
प्रायोपवेशनं
चैव -च एव
सम्पातेश्चैव-सम्पते: च एव
दर्शनम्
 
पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 1.3.27 ।। 
पर्वतारोहणं 
चैव-च एव
सागरस्य 
च 
लङ्घनम्
समुद्रवचनाच्चैव -
समुद्रवचनात् च एव
मैनाकस्य 
च 
दर्शनम्

सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ।
रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।। 1.3.28 ।। 
सिंहिकायाश्च-  सिंहिकाया: च  
निधनं 
लङ्कामलयदर्शनम्-लङ्काम् अलय दर्शनम्
रात्रौ 
लङ्काप्रवेशं
च 
एकस्य 
विचिन्तनम्


आपानभूमिगमनमवरोधस्य दर्शनम् ।
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।। 1.3.29 ।। 
आपानभूमिगमनमवरोधस्य-आपानभूमिगमनम् अवरोधस्य
दर्शनम्
दर्शनं
रावणस्यापि -रावणस्य अपि
पुष्पकस्य 
च 
दर्शनम् 
 
अशोकवनिकायानं सीतायाश्चैव दर्शनम् ।
अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ।। 1.3.30 ।। 
अशोकवनिकायानं 
सीतायाश्चैव-सीताया: च एव
दर्शनम्
अभिज्ञानप्रदानं 
च 
सीतायाश्चाभिभाषणम् -सीताया: च भिभाषणम्
 
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।। 1.3.31 ।। 
राक्षसीतर्जनं
चैव-च एव
त्रिजटास्वप्नदर्शनम्
मणिप्रदानं 
सीताया- सीताया:
वृक्षभङ्गं 
तथैव-तथा एव च
 
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।। 1.3.32 ।। 
राक्षसीविद्रवं 
चैव-च एव
किङ्कराणां
निबर्हणम्
ग्रहणं 
वायुसूनोश्च -वायुसूनो: च
लङ्कादाहाभिगर्जनम्-लङ्कात् आहाभिगर्जनम्

प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।
राघवाश्वासनं चैव मणिनिर्यातनं तथा ।। 1.3.33 ।। 
प्रतिप्लवनमेवाथ-प्रतिप्लवनम् एव अथ
मधूनां
हरणं
तथा
राघवाश्वासनं 
चैव -च एव
मणिनिर्यातनं 
तथा
 
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।। 1.3.34 ।। 
सङ्गमं 
च 
समुद्रेण 
नलसेतोश्च-नलसेतो: च
बन्धनम्
प्रतारं 
च 
समुद्रस्य 
रात्रौ 
लङ्कावरोधनम् -लङ्कस्य अवरोधनम् 

विभीषणेन संसर्गं वधोपायनिवेदनम् ।
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।। 1.3.35 ।।
विभीषणेन
संसर्गं 
वधोपायनिवेदनम् -वध उपाय निवेदनम्
कुम्भकर्णस्य
निधनं 
मेघनादनिबर्हणम्- मेघनादस्य निबर्हणम्

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।। 1.3.36 ।। 
रावणस्य
विनाशं
च 
सीतावाप्तिमरेः 
पुरे
विभीषणाभिषेकं-
विभीषणस्य अभिषेकं
च 
पुष्पकस्य
च 
दर्शनम् 

अयोध्यायाश्च गमनं भरतेन समागमम् ।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 1.3.37 ।। 
अयोध्यायाश्च-अयोध्याया: च
गमनं 
भरतेन
समागमम्
रामाभिषेकाभ्युदयं 
सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं 
चैव-च एव
वैदेह्याश्च -वैदेह्या: च
विसर्जनम्

अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ।। 1.3.38 ।। 
अनागतं
च 
यत्किञ्चिद्रामस्य-यत् कञ्चित् रामस्य् 
वसुधातले
तच्चकारोत्तरे -तत् चकार उत्तरे
काव्ये 
वाल्मीकिर्भगवानृषिः-वाल्मीकि: भगवानृषिः
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे तृतीयः सर्गः ।। 3 ।। 
इत्यार्षे-इति आर्षे
श्रीमद्रामायणे- श्रीमत् रामायणे
वाल्मीकीये 
आदिकाव्ये 
श्रीमद्बालकाण्डे -श्रीमत् बालकाण्डे
तृतीयः 
सर्गः