संज्ञा
अष्टाध्याय्यां विहिताः संज्ञाः
त्रिधा विभक्तुं शक्ताः -
1. अन्वर्थसंज्ञाः
2. कृत्रिमसंज्ञाः
3. परम्परागतसंज्ञाश्चेति।
1. अन्वर्थसंज्ञाः – पाणिनीये या महत्संज्ञा वर्तते सा अन्वर्थसंज्ञा भवति,
महत्संज्ञायाः प्रयोजनमन्वर्थत्वमिति भाष्ये उक्तत्वात्। अर्थमनुसृत्य या संज्ञा
भवति सा अन्वर्थसंज्ञा। यथा – सर्वनाम, इत्, षट्, संख्या इत्यादयः।
2. कृत्रिमसंज्ञा – या संज्ञा पणिनिना कल्पिता , अन्वर्थता च न भवति सा
कृत्रिमसंज्ञा। यथा – टि, घु, घि, घ, भ इत्यादि।
3. परम्परागतसंज्ञा – व्याकरणशास्त्रे कतिपयसंज्ञाः परम्परागताः, तास्तथैव
पाणिनिना स्वीकृताः। यथा – सर्वनामस्थान, सार्वधातुक, आर्धधातुक, प्रातिपदिक, पद, अङ्ग, इत्यादि।
अन्यथापि
विभागं कुर्वन्ति द्विधा – 1. शब्दसंज्ञाः, 2. अर्थसंज्ञा इति।
1. शब्दसंज्ञाः – ये संज्ञाः शब्दानां भवन्ति ताः शब्दसंज्ञाः। यथा –
सर्वादीनि सर्वनामानि 1-1-26, उपसर्गाः क्रियायोग 1-4-59, स्वरादिनिपातमव्ययम् 1-1-36 इत्यादयः। अत्र सर्वादिगणे
विद्यमानानां शब्दानां भवति।
2. अर्थसंज्ञाः – कारकसंज्ञाः अर्थसंज्ञाः भवन्ति, विशिष्टार्थानामेव
विहितत्वात्। यथा – कर्तुरीप्सिततमम् कर्म 1-4-49, कर्मणा यमभिप्रैति स
सम्प्रदानम् 1-4-32,
इत्यादि। अत्र संज्ञा न शब्दस्य विधीयते अपि च अर्थस्य विधीयते, अतः एते
अर्थसंज्ञाः।